अथ श्रीपुष्कराष्टकम् स्तोत्रम् ।। SHRI PUSHKARASHTAKA STOTRAM.
श्रीगणेशाय नमः ।।
श्रियायुतं त्रिदेहतापपापराशिनाशकं
मुनीन्द्रसिद्धसाध्यदेवदानवैरभिष्टुतम् ।।
तटेस्ति यज्ञपर्वतस्य मुक्तिदं सुखाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।१|।।
सदार्यमासशुष्कपञ्चवासरे वरागतं
तदन्यथान्तरिक्षगं सुतन्त्रभावनानुगम् ।।
तदम्बुपानमज्जनं द्दशां सदामृताकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।२।।
त्रिपुष्कर त्रिपुष्कर त्रिपुष्करेति संस्मरेत्स
दूरदेशगोऽपि यस्तदङ्गपापनाशनम् ।।
प्रपन्नदुःखभञ्जनं सुरञ्जनं सुधाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।३।।
मृकण्डुमङ्कणौ पुलस्त्यकण्वपर्वतासिता
अगस्त्यभार्गवौ दधीचिनारदौ शुकादयः ।।
सपद्मतीर्थपावनैकद्दष्ट्यो दयाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।४।।
सदा पितामहेक्षितं वराहविष्णुनेक्षितं
तथाऽमरेश्वरेक्षितं सुरासुरैः समीक्षितम् ।।
इहैव भुक्तिमुक्तिदं प्रजाकरं घनाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।५।।
त्रिदण्डिदण्डिब्रह्मचारितापसैः सुसेवितं
पुरार्धचन्द्रप्राप्तदेवनन्दिकेश्वराभिधैः ।।
सवैद्यनाथनीलकण्ठसेवितं सुधाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।६।।
सुपञ्चधा सरस्वती विराजते यदन्त्तरे
तथैकयोजनायतं विभाति तीर्थनायकम् ।।
अनेकदैवपैत्रतीर्थसागरं रसाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।७।।
यमादिसंयुतो नरस्त्रिपुष्करं निमज्जति
पितामहश्च माधवोप्युमाधवः प्रसन्नताम् ।।
प्रयाति तत्पदं ददात्ययत्नतो गुणाकरं
नमामि ब्रह्मपुष्करं सवैष्णवं सशङ्करम् ।।८।।
इदं हि पुष्कराष्टकं सुनीतिनीरजाश्रितं
स्थितं मदीयमानसे कदापि माऽपगच्छतु ।।
त्रिसन्ध्यमापठन्ति ये त्रिपुष्कराष्टकं नराः
प्रदीप्तदेहभूषणा भवन्ति मेशकिङ्कराः ।।९।।
।। इति श्रीपुष्कराष्टक स्तोत्रम् समाप्तम् ।।
No comments:
Post a Comment