अथ श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम् ।। Shri Vishnu kavacham. - स्वामी जी महाराज.

Post Top Ad

demo-image

अथ श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम् ।। Shri Vishnu kavacham.

Share This
अथ श्रीविष्णुकवचं अथवा ब्रह्माण्डपावनकवचं ब्रह्मवैवर्त पुराणान्तर्गतम् ।।


Shri Vishnu kavacha from Brahmavaivarta Purana.
शौनक उवाच:-
किं स्तोत्रं कवचं विष्णोर्मन्त्रपूजाविधिः पुरा ।
दत्तो वसिष्ठैस्ताभ्यां च तं भवान् वक्तुमर्हति ॥ ८॥

द्वादशाक्षरमन्त्रं च शूलिनः कवचादिकम् ।
दत्तं गन्धर्वराजाय वसिष्ठेन च किं पुरा ॥ ९॥

तदपि ब्रूहि हे सौते श्रोतुं कौतूहलं मम ।
शङ्करस्तोत्रकवचं मन्त्रं दुर्गविनाशनम् ॥ १०॥

सौतिरुवाच:-
तुष्टाव येन स्तोत्रेण मालती परमेश्वरम् ।
तदेव स्तोत्रं दत्तं च मन्त्रं च कवचं शृणु ॥ ११॥

ओं नमो भगवते रासमण्डलेशाय स्वाहा ।
इमं मन्त्रं कल्पतरुं प्रदद्यौ षोडशाक्षरम् ॥ १२॥

पुरा दत्तं कुमाराय ब्रह्मणा पुष्करे हरेः ।
पुरा दत्तं च कृष्णेन गोलोके शङ्कराय च ॥ १३॥

ध्यानं च विष्णोर्वेदोक्तं शाश्वतं सर्वदुर्लभम् ।
मूलेन सर्वं देयं च नैवेद्यादिकमुत्तमम् ॥ १४॥

अतीवगुप्तकवचं पितुर्वक्त्रान्मया श्रुतम् ।
पित्रे दत्तं पुरा विप्र गङ्गायां शूलिना ध्रुवम् ॥ १५॥

शूलिने ब्रह्मणे दत्तं गोलोके रासमण्डले ।
धर्माय गोपीकान्तेन कृपया परमाद्भुतम् ॥ १६॥

ब्रह्मोवाच:-
राधाकान्त महाभाग कवचं यं प्रकाशितम् ।
ब्रह्माण्डपावनं नाम कृपया कथय प्रभो ॥ १७॥

मां महेशं च धर्मं च भक्तं च भक्तवत्सल ।
त्वं प्रसादेन पुत्रेभ्यो दास्यामि भक्तिसंयुतः ॥ १८॥

श्रीकृष्ण उवाच:-
शृणु वक्ष्यामि ब्रह्मेश धर्मदं कवचं परम् ।
अहं दास्यामि युष्मभ्यः गोपनीयं सुदुर्लभम् ॥ १९॥

यस्मै कस्मै न दातव्यं प्राणतुल्यं ममैव हि ।
यत्तेजो मम देहेऽस्ति तत्तेजः कवचेऽपि च ॥ २०॥

कुरु सृष्टिमिदं धृत्वा धाता त्रिजगतां भव ।
संहर्ता भव हे शम्भो मम तुल्यो भवे भव ॥ २१॥

हे धर्म त्वमिमं धृत्वा भव साक्षी च कर्मणाम् ।
तपसां फलदाता च यूयं भवत मद्वरात् ॥ २२॥

ब्रह्माण्डपावनस्यास्य कवचस्य हरिः स्वयम् ।
ऋषिश्च्छन्दश्च गायत्री देवोऽहं जगदीश्वरः ॥ २३॥

धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
त्रिलक्षवारपठनात् सिद्धिदं कवचं विधे ॥ २४॥

यो भवेत् सिद्धकवचो मम तुल्यो भवेत्तु सः ।
तेजसा सिद्धियोगेन ज्ञानेन विक्रमेण च ॥ २५॥

IMG-20150506-WA0003प्रणवो मे शिरः पातु नमो रासेश्वराय च ।
भालं पायान्नेत्रयुग्मं नमो राधेश्वराय च ॥ २६॥

कृष्णः पायात् श्रोत्रयुग्मं हे हरे घ्राणमेव च ।
जिह्विकां वह्निजाया तु कृष्णायेति च सर्वतः ॥ २७॥

श्रीकृष्णाय स्वाहेति च कण्ठं पातु षडक्षरः ।
ह्रीं कृष्णाय नमो वक्त्रं क्लीं पूर्वश्च भुजद्वयम् ॥ २८॥

नमो गोपाङ्गनेशाय स्कन्धावष्टाक्षरोऽवतु ।
दन्तपङ्क्तिमोष्ठयुग्मं नमो गोपीश्वराय च ॥ २९॥

ओं नमो भगवते रासमण्डलेशाय स्वाहा ।
स्वयं वक्षस्थलं पातु मन्त्रोऽयं षोडशाक्षरः ॥ ३०॥

ऐं कृष्णाय स्वाहेति च कर्णयुग्मं सदावतु ।
ओं विष्णवे स्वाहेति च कङ्कालं सर्वतोऽवतु ॥ ३१॥

ओं हरये नम इति पृष्ठं पादं सदावतु ।
ओं गोवर्धनधारिणे स्वाहा सर्वशरीरकम् ॥ ३२॥

प्राच्यां मां पातु श्रीकृष्णः आग्नेय्यां पातु माधवः ।
दक्षिणे पातु गोपीशो नैरृत्यां नन्दनन्दनः ॥ ३३॥

वारुण्यां पातु गोविन्दो वायव्यां राधिकेश्वरः ।
उत्तरे पातु रासेश ऐशान्यामच्युतः स्वयम् ॥ ३४॥

सन्ततं सर्वतः पातु परो नारायणः स्वयम् ।
इति ते कथितं ब्रह्मन् कवचं परमाद्भुतम् ॥ ३५॥

मम जीवनतुल्यं च युष्मभ्यं दत्तमेव च ।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
कलां नार्हन्ति तान्येव कवचस्यैव धारणात् ॥ ३६॥

गुरुमभ्यर्च्य विधिवद्वस्त्रालङ्कारचन्दनैः ।
स्नात्वा तं च नमस्कृत्य कवचं धारयेत् सुधीः ॥ ३७॥

कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् द्विज ॥ ३८॥

Swami+Je।। इति श्रीब्रह्मवैवर्ते महापुरुषब्रह्माण्डपावनं कवचं समाप्तम् ।।

www.sansthanam.com
www.dhananjaymaharaj.com
www.sansthanam.blogspot.com
www.dhananjaymaharaj.blogspot.com

नारायण सभी का नित्य कल्याण करें ।। Sansthanam.


।। नारायण नारायण ।।
Comment Using!!

No comments:

Post a Comment

Post Bottom Ad

Pages